|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.80. अध्यायः 080
Mahabharata - Udyoga Parva - Chapter Topics
सहदेवेन श्रीकृष्णंप्रति कुरूणां शमाभिसन्धावपि युद्धपक्षस्यैव स्थापनकथनम् ॥ 1 ॥ सात्यकिना सहदेवपक्षानुमोदने योधानां सर्षात्सिंहनादः ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
सहदेव उवाच। 5-80-0x(3631)(34618)
यदेतत्कथितं राज्ञा धर्म एष सनातनः।
यथा च युद्धमेव स्यात्तथा कार्यमरिन्दम ॥ 5-80-1(34619)
यदि प्रसममिच्छेयुः कुरवः पाण्डवैः सह।
तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ॥ 5-80-2(34620)
कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम्।
अवधेन प्रशाम्येत मम मन्युः सुयोधने ॥ 5-80-3(34621)
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः ।
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे ॥ 5-80-4(34622)
ब्रूहि मद्वचनं कृष्ण सुयोधनमपण्डितम्।
कृच्छ्रे वने वा वस्तव्यं पुरे वा नागसाह्वये ॥ 5-80-5(34623)
सात्यकिरुवाच। 5-80-6x(3632)
सत्यमाह महाबाहो सहदेवो महामतिः।
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ॥ 5-80-6(34624)
न जानासि यथा दृष्ट्वा चीराजिनधरान्वने।
तवापि मन्युरुद्धूतो दुःखितान्प्रेक्ष्य पाण्डवान् ॥ 5-80-7(34625)
तस्मान्माद्रीसुतः शूरो यदाह रणकर्कशः।
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ॥ 5-80-8(34626)
वैशम्पायन उवाच। 5-80-9x(3633)
एवं वदि वाक्यं तु युयुधाने महामतौ।
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ॥ 5-80-9(34627)
सर्वे हि सर्वशो वीरास्तद्वचः प्रत्यपूजयन्।
साधुसाध्विति शैनेयं हर्षयन्तो युयुत्सवः ॥ ॥ 5-80-10(34628)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अशीतितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-80-4 यदि यद्यपि भीमादयो धार्मिकाः स्युः तथापि अहं धर्ममुत्सृज्य तेन सह योद्धृमिच्छामि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|